Select English Font Size

A A A A

Select Sanskrit Font Size

वाक्चातुर्यम् Oratory skills Quiz Vocabulary quiz
Play 0:00 0:00

देवराजः कदाचित् कार्यनिमित्तं नगरं गतवान्   ।   कार्याणि समाप्य प्रत्यागच्छत्   ।   सः कस्यचित् आपणस्य पुरतः स्थितवान्   ।   सः राङ्कवानाम् आपणः   ।  

आपणस्वामी देवराजम् आदरातिथ्येन अन्तः आहूय भवान् क्रीणातु, मा वा क्रीणातु दर्शने का हानिः?   ।   एषः उत्तमः राङ्कवः   ।   मूल्यम् अपि अधिकम्   ।   यदि भवान् एतं धरति तर्हि जनाः भवन्तं भूस्वामी इति चिन्तयन्ति   ।   एकवारं धृत्वा किञ्चित् दूरं गत्वा आगच्छतु तावत् इति उक्तवान्   ।   देवराजाय राङ्कवं धारितवान्   ।  

देवराजस्य परिचयम् अप्राप्तवान् इव आपणिकः उक्तवान् उत्तमं राङ्कवं धृतवान् भवान् निश्चयेन भूस्वामी एव कश्चित् भवेत्   ।   सौभाग्येन अत्र उपस्थितः भवान्   ।   आगच्छतु आगच्छतु इति   ।  

आपणिकस्य वाक्चातुर्येण सन्तुष्टः देवराजः धनं दत्त्वा राङ्कवं क्रीतवान्   ।