Select English Font Size

A A A A

Select Sanskrit Font Size

प्रजाप्रतिनिधिः People's representative Quiz Vocabulary quiz
Play 0:00 0:00

नागपाली सुसम्पन्नः ग्रामः   ।   तस्मिन् ग्रामे वामनमूर्तिः नाम कश्चित् आसीत्   ।   ग्रामे यत्र कुत्रापि लघु विवादः उत्पन्नः चेदपि वामनमूर्तिः तत्र उपस्थितः भवति स्म   ।   वदति स्म एतस्य विवादस्य निर्णयः अत्र न भविष्यति   ।   अतः न्यायालयः गन्तव्यः इति   ।  

एकदा कश्चन प्रजाप्रतिनिधिः राजधानीं प्रेषणीयः आसीत्   ।   किन्तु कस्यापि प्रेषणविषये ग्रामीणानाम् एकाभिप्रायः न आसीत्   ।   अन्ते ग्रामीणाः एतद्विषये निर्णयाधिकारं ग्रामप्रमुखस्य अधीनं कृतवन्तः   ।   ग्रामप्रमुखः दित्राणि दिनानि यावत् रात्रौ वेषान्तरेण ग्रामे सञ्चारं कृतवान्   ।   अन्ते उक्तवान् वामनमूर्तिः एव प्रजाप्रतिनिधित्वेन राजधानीं गच्छतु इति   ।  

तदा ग्रामीणाः आश्चर्येण पृष्टवन्तः तं विवादजनकं वामनमूर्तिं प्रजाप्रतिनिधित्वेन प्रेषयामः वा? इति   ।   ग्रामप्रमुखः शान्तस्वरेण उक्तवान् आम् वामनमूर्तिः ग्रामेषु विवादं जनयति इति मम अपि सन्देहः आसीत् एव   ।   गतद्वित्रेषु दिनेषु अटनेन मम सन्देहः वास्तविकः इति दृढीकृतः   ।   वामनमूर्तिं यदि प्रजाप्रतिनिधित्वेन प्रेषयामः तर्हि ग्रामे शान्तिः व्याप्ता भवति   ।   यतः प्रजाप्रतिनिधिः राजधान्याम् एव निवसेत् किल इति   ।  

ग्रामवासिनः ग्रामप्रमुखस्य वचनम् अङ्गीकृतवन्तः   ।   ते ऐकमत्येन वामनमूर्तिं प्रजाप्रतिनिधिं राजधानीं प्रेषितवन्तः   ।