Select English Font Size

A A A A

Select Sanskrit Font Size

ऐश्वर्यरहस्यम् The secret of wealth Quiz Vocabulary quiz
Play 0:00 0:00

ऐश्वर्यरहस्यम्   The secret of wealth

रामपुरे रामचन्द्रः कश्चन धनिकः   ।   रिक्तहस्तेन सः तं ग्रामं प्रविष्टवान् आसीत्   ।   आगमनानन्तरम् एकवर्षाभ्यन्तरे भूमिं सम्पादितवान् आसीत्   ।   सः पुनश्च पञ्चवर्षाभ्यन्तरे धनिकपङ्क्तौ स्थानं प्राप्तवान् च   ।  

रामचन्द्रः अल्पे अवधौ कथं धनिकः जातः इति तद्ग्रामीणः शरभः बहुचिन्तनानन्तरम् अपि न ज्ञातवान्   ।   कथञ्चित् एतत् रहस्यं ज्ञातव्यम् एव इति चिन्तयन् सः एकदा सायङ्काले रामचन्द्रस्य गृहं गतवान्   ।  

तदा रामचन्द्रः एकं दीपं प्रज्वाल्य प्रकोष्ठे मध्ये स्थापयन् आसीत्   ।   शरभं दृष्ट्वा सन्तोषं प्रकटयन् रामचन्द्रः आदरपूर्वकम् उक्तवान् विशेषकारणेन आगतवान् इति भाति   ।  

तथा किमपि नास्ति इति उक्त्वा शरभः स्वकीयसन्देहं पृष्टवान्   ।  

आवां समानग्रामीणौ स्नेहितौ च किल किमर्थं रहस्यं मह्यं न निवेदयति भवान्   ।  

अत्र किं रहस्यम् इति वदन् रामचन्द्रः एकं लघुकटं भूमौ प्रसार्य शरभं तत्र उपवेशितवान्   ।   अन्तः गत्वा दीपं निर्वाप्य बहिः आगतवान्   ।   शरभस्य पार्श्वे उपविश्य इदानीं वार्तालापं कुर्मः इति उक्तवान् च   ।  

शरभः आश्चर्येण इदानीं आगमनसमये दीपं किमर्थं निर्वापितवान् इति अहम् न ज्ञातवान् प्रथमं तस्य कारणं वदतु इति उक्तवान्   ।  

रामचन्द्रः सहजस्वरेण सुखम् उपविश्य वार्तालापार्थ दीपः किमर्थम्? दीपः ज्वलति चेत् वृथा तैलव्ययः   ।   अनपेक्षितव्ययः किमर्थ करणीयः इति पृष्टवान्   ।  

एतत् श्रुत्वा शरभः झटिति उत्थाय ज्ञातवान् अहम्   ।   अस्तु पुनः मिलामः इति उक्त्वा ततः प्रस्थितः   ।  

किमपि रहस्यं ज्ञातव्यम् इति पृष्टवान् किल इति पृष्टवान् रामचन्द्रः   ।  

भवत्कथनतः पूर्वम् एव भवतः व्यवहारेण तत् रहस्यम् अहम् ज्ञातवान्   ।  

इति वदन् शरभः स्वगृहं गतवान् एव   ।